ವ್ಯಾಕರಣ ೯
📖संस्कृत व्याकरणं किं सुलभं वा ????? चिन्तनम् =९ 📖
कथ धातु:
वाक्यप्रबंध: अर्थ:
दशमगणस्थ:
सेट्
उभयपदि
सकर्मक:
१. कथयति--- माता पुत्रीं कथयति मा गच्छ दूरम् इति।
२. कथयिष्यति----- पितामह: आगामि वासरे मम कथां कथयिष्यति ।
३. कथ्यते --- तेन बहुविषया: अनवसरे कथ्यन्ते ।
४. कथयितव्यम् --- लौकिकानाम् धर्मविषया: अवश्यं कथयितव्या: ।
५. कथनीयम् --- छात्राणां प्रति नीतिकथा, पुराणकथादिकं नियतं कथनीयम् ।
६.कथित: --- गुरुणा शिष्य: कथित: यावच्छीघ्रं कण्ठपाठं करणीयम् इति ।
७. : कथितवान्--- सा कथितवती मां पश्य इति।
८. कथयन्ती --- कथां कथयन्ती मम प्रिया अश्रूपातनं कृतवती ।
९. कथयितुम् --- किमपि कथयितुम् उद्युक्त: स: मत्सकाशं झटिति आगतवान् ।
१०. कथयित्वा --- पुत्री अतिवेगेन किमपि कथयित्वा शालां गतवती ।
११. अनुकथय्य ---- बाला: गुरूपदिष्टान् श्लोकान् अनुकथय्य श्रमं प्राप्ता: ।
१२. कथनम्-- कथनम् सदा सुस्पष्टं तथा भावपूर्णं भवितव्यम् ।
सङ्ग्रहलेख: - श्रीनिधि अभ्यङ्कर: ।
मूलम् -- कन्नड संस्कृत क्रियापदकोश: ।
प्रमादा: सन्ति चेत् कृपया कथ्यन्ताम्
http://shreenidhiabhyankar.blogspot.in/
ಕಾಮೆಂಟ್ಗಳು
ಕಾಮೆಂಟ್ ಪೋಸ್ಟ್ ಮಾಡಿ